________________
राजोवाच-
श्रीमद्भगवद्भादरायणप्रणीतम्
श्रीमद्भागवतम्
सप्तमस्कन्धः
॥ अथ प्रथमोऽध्यायः ॥
समः प्रियः सुहृद् ब्रह्मन् भूतानां भगवान् स्वयम् । इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा ॥ १ ॥
श्रीयादवार्यविरचिता भागवतप्रकाशिका
सुखादिगुणसम्पूर्ण दुःखाज्ञानादिवर्जितम् । शुकादिमुनिमध्यस्थं व्यासयोगीशमाभजे ॥ १ ॥
यदुक्तं पूर्वस्कंधान्ते,
हतपुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना ।
मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् । इति ।
तच्छ्रुत्वा परीक्षित्पृच्छति ।। सम इति त्रिभिः ।। प्रियत्वादेव सुहृत् । समस्य सुहृदस्य वैषम्यं न सम्भावितमित्याशयः ॥ १ ॥
श्रीव्यासतत्वज्ञविरचिता श्रीभागवतटिप्पणी मन्दनन्दिनी
चरणस्मरणात्सर्वदुरितस्य विदारणम् ।
शरणं नृहरिं वन्दे करुणावरुणालयम् ॥ १ ॥ आपाततोऽन्यथाभातभागं भागवतं सताम् ।
तात्पर्यतोऽजितपद्यः तं तत्त्वज्ञमुनिं भजे || २ ||