📚 श्रीमद्भागवतम् (यदुपत्याटीका) - स्कन्धः ५
Page 1
Download 📥
________________ राजोवाच- श्रीमद्भगवद्भादरायणप्रणीतम् श्रीमद्भागवतम् सप्तमस्कन्धः ॥ अथ प्रथमोऽध्यायः ॥ समः प्रियः सुहृद् ब्रह्मन् भूतानां भगवान् स्वयम् । इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा ॥ १ ॥ श्रीयादवार्यविरचिता भागवतप्रकाशिका सुखादिगुणसम्पूर्ण दुःखाज्ञानादिवर्जितम् । शुकादिमुनिमध्यस्थं व्यासयोगीशमाभजे ॥ १ ॥ यदुक्तं पूर्वस्कंधान्ते, हतपुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना । मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् । इति । तच्छ्रुत्वा परीक्षित्पृच्छति ।। सम इति त्रिभिः ।। प्रियत्वादेव सुहृत् । समस्य सुहृदस्य वैषम्यं न सम्भावितमित्याशयः ॥ १ ॥ श्रीव्यासतत्वज्ञविरचिता श्रीभागवतटिप्पणी मन्दनन्दिनी चरणस्मरणात्सर्वदुरितस्य विदारणम् । शरणं नृहरिं वन्दे करुणावरुणालयम् ॥ १ ॥ आपाततोऽन्यथाभातभागं भागवतं सताम् । तात्पर्यतोऽजितपद्यः तं तत्त्वज्ञमुनिं भजे || २ ||